अपार धन-संपदा के लिए पढ़ें कनकधारा स्तोत्र

Add caption


 अङ्गं हरे: पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम ।

अङ्गीकृताखिल विभूतिरपाङ्गलीला माङ्गल्यदाsस्तु मम मङ्गलदेवताया: ।।1।।


मुग्धा मुहुर्विदधती वदने मुरारे: प्रेमत्रपाप्रणिहितानि गतागतानि ।

माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवाया: ।।2।।


विश्वामरेन्द्रपदविभ्रमदान दक्षमानन्दहेतुरधिकं मुरविद्विषोsपि ।

ईषन्निषीदतु मयि क्षणमीक्षणार्ध मिन्दीवरोदर सहोदरमिन्दिराया: ।।3।।


आमीलिताक्षमधिगम्य मुदा मुकुन्दमानन्दकन्दमनिमेषमनङ्गतन्त्रम ।

आकेकरस्थितकनीनिकपक्ष्मनेत्रम भूत्यै भवेन्मम भुजङ्गशयाङ्गनाया: ।।4।।


बाह्वन्तरे मधुजित: श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति ।

कामप्रदा भगवतोsपि कटाक्षमाला कल्याणमावहतु मे कमलालयाया: ।।5।।


कालाम्बुदालिललितोरसि कैटभारेर्धाराधरे स्फुरति या तडिदङ्गनेव ।

मातु: समस्तजगतां महनीयमूर्तिर्भद्राणि मे दिशतु भार्गवनन्दनाया: ।।6।।


प्राप्तं पदं प्रथमत: किलयत्प्रभावान् माङ्गल्यभाजि मधुमाथिनि मन्मथेन ।

मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकाया: ।।7।।


दद्याद्दयानुपवनो द्रविणाम्बुधारा-मस्मिन्नकिंचन विहंगशिशौ विषण्णे ।

दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाह: ।।8।।


इष्टा विशिष्टमतयोsपि यया दयार्द्रदृष्टया त्रिविष्टपपदं सुलभं लभन्ते ।

दृष्टि: प्रहृष्टकमकमलोदरदीप्तिरिष्टाम पुष्टिं कृषीष्ट मम पुष्करविष्टराया: ।।9।।


गीर्देवतेति गरुड़ध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति ।

सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैक गुरोस्तरुण्यै ।।10।।


श्रुत्यै नमोsस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोsस्तु रमणीयगुणार्णवायै ।

शक्त्यै नमोsस्तु शतपत्रनिकेतनायै पुष्टयै नमोsस्तु पुरुषोत्तम वल्लभायै ।।11।।


नमोsस्तु नालीकनिभाननायै नमोsस्तु दुग्धोदधिजन्मभूत्यै ।

नमोsस्तु सोमामृतसोदरायै नमोsस्तु नारायणवल्लभायै ।।12।।


सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि ।

त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ।।13।।


यत्कटाक्षसमुपासनाविधि: सेवकस्य सकलार्थसम्पद: ।

सन्तनोति वचनाङ्गमानसैस्त्वां मुरारिहृदयेश्वरीं भजे ।।14।।


सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे ।

भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम ।।15।।


दिग्घस्तिभि: कनककुम्भमुखाव सृष्टस्ववर्वाहिनीविमलचारुजलप्लुताङ्गीम् ।

प्रातर्नमामि जगतां जननीमशेषलोकाधिनाथगृहिणीममृताब्धि पुत्रीम ।।16।।


कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपांङ्गै: ।

अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयाया: ।।17।।


स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम्।

गुणाधिका गुरुतरभाग्यभागिनो भवन्ति
ते भुवि बुधभाविताशया: ।।18।।

Comments

Popular posts from this blog

60 संवत्सरों के नाम

मनोवांछित फल देने वाला यह दिव्य स्त्रोत्र

श्री रुद्राष्टकम् स्तोत्र