अपार धन-संपदा के लिए पढ़ें कनकधारा स्तोत्र
Add caption अङ्गं हरे: पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम । अङ्गीकृताखिल विभूतिरपाङ्गलीला माङ्गल्यदाsस्तु मम मङ्गलदेवताया: ।।1।। मुग्धा मुहुर्विदधती वदने मुरारे: प्रेमत्रपाप्रणिहितानि गतागतानि । माला दृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवाया: ।।2।। विश्वामरेन्द्रपदविभ्रमदान दक्षमानन्दहेतुरधिकं मुरविद्विषोsपि । ईषन्निषीदतु मयि क्षणमीक्षणार्ध मिन्दीवरोदर सहोदरमिन्दिराया: ।।3।। आमीलिताक्षमधिगम्य मुदा मुकुन्दमानन्दकन्दमनिमेषमनङ्गतन्त्रम । आकेकरस्थितकनीनिकपक्ष्मनेत्रम भूत्यै भवेन्मम भुजङ्गशयाङ्गनाया: ।।4।। बाह्वन्तरे मधुजित: श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोsपि कटाक्षमाला कल्याणमावहतु मे कमलालयाया: ।।5।। कालाम्बुदालिललितोरसि कैटभारेर्धाराधरे स्फुरति या तडिदङ्गनेव । मातु: समस्तजगतां महनीयमूर्तिर्भद्राणि मे दिशतु भार्गवनन्दनाया: ।।6।। प्राप्तं पदं प्रथमत: किलयत्प्रभावान् माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकाया: ।।7।। दद्याद्दयानुपवनो द्रविणाम्बुधारा-मस्मिन्नकिंचन विहंगशिशौ विषण्णे ।...